मंत्र संग्रह पर खोजें

मंगला गौरी स्तोत्रं


मंगला गौरी स्तोत्रं


ॐ रक्ष-रक्ष जगन्माते देवि मङ्गल चण्डिके

हारिके विपदार्राशे हर्षमंगल कारिके

हर्षमंगल दक्षे च हर्षमंगल दायिके

शुभेमंगल दक्षे च शुभेमंगल चंडिके

मंगले मंगलार्हे च सर्वमंगल मंगले

सता मंगल दे देवि सर्वेषां मंगलालये

पूज्ये मंगलवारे च मंगलाभिष्ट देवते

पूज्ये मंगल भूपस्य मनुवंशस्य संततम्

मंगला धिस्ठात देवि मंगलाञ्च मंगले

संसार मंगलाधारे पारे च सर्वकर्मणाम्

देव्याश्च मंगलंस्तोत्रं यः श्रृणोति समाहितः

प्रति मंगलवारे च पूज्ये मंगल सुख-प्रदे



तन्मंगलं भवेतस्य न भवेन्तद्-मंगलम्

वर्धते पुत्र-पौत्रश्च मंगलञ्च दिने-दिने

मामरक्ष रक्ष-रक्ष ॐ मंगल मंगले


इति मंगलागौरी स्तोत्रं सम्पूर्णं