मंत्र संग्रह पर खोजें

श्री उग्र नृसिंह स्तुति



व्याधूतकेसरसटाविकरालवक्त्रं
हस्ताग्रविस्फुरितशङ्खगदासिचक्रम् |
आविष्कृतं सपदि येन नृसिंहरूपं
नारायणं तमपि विश्वसृजं नमामि ||

चञ्चच्चण्डनखाग्रभेदविहलद्दैत्येन्द्रवक्षः क्षर-
द्रक्ताभ्यक्तसुपाटलोद्भटसदासंभ्रान्तभीमाननः |
तिर्यक्कण्ठकठोरघोषघटनासर्वाङ्गखर्वीभव-
द्दिङ्मातङ्गनिरीक्षितो विजयते वैकुण्ठकण्ठीरवः ||

दैत्यानामधिपे नखाङ्कुरकुटीकोणप्रविष्टात्मनि
स्फारीभूतकरालकेसरसटासङ्घातघोराकृतेः |
सक्रोधं च सविस्मयं च सगुरुव्रीडं च सान्तः स्मितं
क्रीडाकेसरिणो हरेर्विजयते तत्कालमालोकितम् ||

सुरासुरशिरोरत्नकान्तिविच्छुरिताङ्घ्रये |
नमस्त्रिभुवनेशाय हरये सिंहरूपिणे ||